|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.35. अध्यायः 035
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेनार्जुनंप्रति ब्राह्मणीब्राह्मणशब्दनिर्दिष्टयोः क्रमेणि बुद्धिमनस्त्वकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्राह्मण उवाच।
नेदमल्पात्मना शक्यं वेदितुं वाऽकृतात्मना।
बहु चाल्पं च संक्षिप्तं विस्तृतं च मतं मम॥ 14-35-1(93315)
उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः।
तन्मन्ये कारणं कर्म यत एषा प्रवर्तते॥ 14-35-2(93316)
ब्राह्मण उवाच। 14-35-3x(7852)
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः।
तपःश्रुतेभिमथिनी ज्ञानाग्निर्जायते ततः॥ 14-35-3(93317)
ब्राह्मणयुवाच। 14-35-4x(7853)
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति संज्ञितम्।
ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तद्वद॥ 14-35-4(93318)
ब्राह्मण उवाच। 14-35-5x(7854)
अलिङ्गो निर्गुणश्चैव कारणं नास्य विग्रहे।
उपायमेव वक्ष्यामि येन गृह्येत भावना॥ 14-35-5(93319)
सम्यगप्युपदिष्टस्य ह्यमृतस्येव तृप्यसे।
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गान्निपातितः। 14-35-6(93320)
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते।
पश्यतः शृण्वतो बुद्धिरात्मनैवोपजायते॥ 14-35-7(93321)
यावन्त इह शक्येरंस्तावतोंऽसान्प्रकल्पयेत्।
अव्यक्तान्व्यक्तरूपांश्च शतशोऽथ सहस्रशः॥ 14-35-8(93322)
सर्वानुमानयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान्।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति॥ 14-35-9(93323)
श्रीभगवानुवाच। 14-35-10x(7855)
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंशये।
क्षेत्रज्ञानेन परतः क्षेत्रज्ञोऽन्यः प्रवर्तते॥ 14-35-10(93324)
अर्जुन उवाच। 14-35-11x(7856)
क्व नु सा ब्राह्मणि कृष्ण क्व चासौ ब्राह्मणर्षभः।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत॥ 14-35-11(93325)
श्रीभगवानुवाच। 14-35-12x(7857)
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम्।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय॥ ॥ 14-35-12(93326)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चत्रिंशोऽध्यायः॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-35-6 सम्यगुपायो दृष्टश्च भ्रमरैरिव लक्ष्यत इति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|